Tuesday, 7 June 2022

Purvarupa sangraha


Purvarupa sangraha

माधवनिदानम्

३. अतीसारनिदानम्
अतिसारपूर्वरूपम्
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः |
विट्सङ्ग आध्मानमथाविपाका भविष्यतस्तस्य पुरःसराणि ||५||
(सु. उ. तं. अ. ४०) |


४. ग्रहणीनिदानम्
ग्रहणीपूर्वरूपम्
पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षयः |
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ||४||
(च. चि. अ. १५) |


५. अर्शोनिदानम्
अर्शसां पूर्वरूपम्
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च |
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ||३१||
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च |
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ||३२||
(च. चि. अ. १४) |


८. पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानम्
पाण्डुरोगपूर्वरूपम्
त्वक्स्फोटनष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः |
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ||३||
(सु. उ. तं. अ. ४४) |

९. रक्तपित्तनिदानम्
रक्तपित्तपूर्वरूपम्
सदनं शीतकामित्वं [१] कण्ठधूमायनं वमिः |
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ||४||
(सु. उ. तं. अ. ४५) |


१०. राजयक्ष्मक्षतक्षीणनिदानम्
राजयक्ष्मपूर्वरूपम्
श्वासाङ्गमर्दकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्राः |
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ||३||
(सु. उ. तं. अ. ४१) |
स्वप्नेषु काकशुकशल्लकिनीलकण्ठा गृध्रास्तथैव कपयः कृकलासकाश्च |
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ||४||
(सु. उ. तं. अ. ४१) |


१०. राजयक्ष्मक्षतक्षीणनिदानम्
उरःक्षतपूर्वरूपम्
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ||२९||


११. कासनिदानम्
कासपूर्वरूपम्
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता |
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||४||
(च. चि. अ. २२) |


१२. हिक्काश्वासनिदानम्
हिक्कापूर्वरूपम्
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता |
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ||५||
(च. चि. अ. २१) |


१२. हिक्काश्वासनिदानम्
श्वासपूर्वरूपं, श्वाससम्प्राप्तिश्च
प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च |
आनाहो वक्त्रवैरस्यं शङ्खनिस्तोद एव च ||१६||
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः |
विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः ||१७||
(सु. उ. तं. अ. ५१) |


१५. छर्दिनिदानम्
छर्दिपूर्वरूपम्
हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः |
द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ||५||
(सु. उ. तं. अ. ४९) |


१७. मूर्छाभ्रमनिद्रातन्द्रासन्न्यासनिदानम्
मूर्छापूर्वरूपम्
हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञादौर्बल्यमेव च |
सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ||६||
(सु. उ. तं. अ. ४६) |


२१. अपस्मारनिदानम्
अपस्मारपूर्वरूपम्
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढता |
निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ ||२||
(सु. उ. तं. अ. ६१) |


२२. वातव्याधिनिदानम्
वातव्याधेः पूर्वरूपादयः
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् |
आत्मरूपं तु यद्व्यक्तमपायो लघुता पुनः ||५||
(च. चि. अ. २८) |


२३. वातरक्तनिदानम्
वातरक्तपूर्वरूपम्
स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् |
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ||५||
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु |
निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ||६||
कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् |
वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ||७||
(च. चि. अ. २९) |

२४. ऊरुस्तम्भनिदानम्
ऊरुस्तम्भस्य पूर्वरूपम्
प्राग्रूपं तस्य निद्राऽतिध्यानं स्तिमितता ज्वरः |
रोमहर्षोऽरुचिश्छर्दिर्जङ्घोर्वोः सदनं तथा ||६||


२८. गुल्मनिदानम्
गुल्मपूर्वरूपम्
उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि |
आटोप आध्मानमपक्तिशक्तिरासन्नगुल्मस्य वदन्ति चिह्नम् ||४||
(वा. नि. अ. ११) |


३२. अश्मरीनिदानम्
अश्मरीपूर्वरूपम्
... [१] अथासां पूर्वलक्षणम् |
बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ||३||
[२] मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः |
(वा. नि. अ. ९) |


३३. प्रमेहप्रमेहपिडकानिदानम्
प्रमेहपूर्वरूपम्
दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः |
दाहश्चिक्कणता देहे तृट् स्वाद्वास्यं च जायते ||५||


३६. शोथनिदानम्
शोथपूर्वरूपम्
तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम् ||३||
(वा. नि. अ. १३) |

४९. कुष्ठनिदानम्
कुष्ठपूर्वरूपम्
अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः |
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः ||८||
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः |
रूढानामपि रूक्षत्वं निमित्तऽल्पेऽतिकोपनम् ||९||
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् |
(वा. नि. अ. १४) |


५०. शीतपित्तोदर्दकोठनिदानम्
शीतपित्तपूर्वरूपम्
पिपासारुचिहृल्लासदेहसादाङ्गगौरवम् |
रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् ||२||


५४. मसूरिकानिदानम्
मसूरिकाया निदानपूर्विका सम्प्राप्तिः, पूर्वरूपं च
अथ मसूरिकानिदानम् |
कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः |
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ||१||
क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः |
जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ||२||
मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः |
तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः ||३||
त्वचि शोथः सवैवर्ण्यो नेत्ररागश्च जायते |४|

________________________________________



 


 



No comments:

Post a Comment